|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.252. अध्यायः 252
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कठवल्ल्यर्थप्रतिपादकव्यासवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
व्यास उवाच। 12-252-0x(6254)(75545)
प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैरधिष्ठितः।
न चैनं ते प्रजानन्ति स तु जानाति तानपि॥ 12-252-1(75546)
तैश्चैवं कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः।
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः॥ 12-252-2(75547)
इन्द्रियेभ्यः परे ह्यर्था अर्थेभ्यः परमं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः॥ 12-252-3(75548)
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः॥ 12-252-4(75549)
एवं सर्वेषु भूतेषु गूढोत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः॥ 12-252-5(75550)
अन्तरात्मनि संलीय मनः षष्ठानि मेधया।
इन्द्रियाणीन्द्रियार्थांश्च बहुचिन्त्यमचिन्तयन्॥ 12-252-6(75551)
ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः।
अनिश्चरः प्रशान्तात्मा ततोर्च्छत्यमृतं पदम्॥ 12-252-7(75552)
इन्द्रियाणां तु सर्वेषां पश्यात्मा चलितस्मृतिः।
आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते॥ 12-252-8(75553)
हित्वा तु सर्वसंकल्पान्सत्वे चित्तं निवेशयेत्।
सत्वे चित्तं समावेश्य ततः कालंजरो भवेत्॥ 12-252-9(75554)
चित्तप्रसादेन यतिर्जहातीह शुभाशुभम्।
प्रसन्नात्मात्मनि स्थित्वा सुखमत्यन्तमश्नुते॥ 12-252-10(75555)
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्।
निवाते वा यथा दीपो दीप्यमानो न कम्पते॥ 12-252-11(75556)
एवं पूर्वापरे रात्रौ युञ्जन्नात्मानमात्मनि।
लघ्वाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि॥ 12-252-12(75557)
रहस्यं सर्ववेदानामनैतिह्यमनागतम्।
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम्॥ 12-252-13(75558)
धर्माख्यानेषु सर्वेषु चित्राख्यानेषु यद्वसु।
दृश्यते ऋक्सहस्राणि निर्मथ्यामृतमुद्धृतम्॥ 12-252-14(75559)
नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च।
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम्॥ 12-252-15(75560)
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम्।
तदितं नाप्रशान्ताय नादान्तायातपस्विने॥ 12-252-16(75561)
नावेदविदुषे वाच्यं तथा नानुगताय च।
नासूयकायानृजवे न चानिर्दिष्टकारिणे॥ 12-252-17(75562)
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च।
श्लाघिने श्लाघनीयाय प्रशान्ताय तपस्विने॥ 12-252-18(75563)
इदं प्रियाय पुत्राय शिष्यायानुगताय च।
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन॥ 12-252-19(75564)
यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः।
इदमेव ततः श्रेय इति मन्येत तत्त्ववित्॥ 12-252-20(75565)
अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम्।
यत्तन्महर्षिभिर्जुष्टं वेदान्तेषु च गीयते॥ 12-252-21(75566)
तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि॥ 12-252-22(75567)
यच्च ते मनसि वर्तते परं
यत्र चास्ति तव संशयः क्वचित्।
श्रूयतामयमहं तवाग्रतः
पुत्र किं हि कथयामि ते पुनः॥ ॥ 12-252-23(75568)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विपञ्चाशदधिकद्विशततमोऽध्यायः॥ 252॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-252-4 अव्यक्तात्परतोऽमृतम्। अमृतान्न परं इति झ. थ. पाठः॥ 12-252-5 महात्मा तत्वदर्शिभिरिति थ. ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|